|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.5. अध्यायः 005
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन द्रुपदवाक्यप्रशंसनपूर्वकं राज्ञां धृतराष्ट्रस्य च दूतपुरोहितप्रेषणं संदिश्य द्वारकांप्रति गमनम् ॥ 1 ॥
विराटद्रुपददूताहूदानां राज्ञामागमनम् ॥ 2 ॥
दुर्योधनदूताहूतानां च राज्ञामागमनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-5-0x(3333)(31783)
द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः।
वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम् ॥ 5-5-1(31784)
उपपन्नमिदं वाक्यं सोमकानां धुरंधरे।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ॥ 5-5-2(31785)
एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम्।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥ 5-5-3(31786)
किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥ 5-5-4(31787)
ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥ 5-5-5(31788)
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च।
शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥ 5-5-6(31789)
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च ॥ 5-5-7(31790)
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥ 5-5-8(31791)
यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः।
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥ 5-5-9(31792)
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये ॥ 5-5-10(31793)
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥ 5-5-11(31794)
वैशम्पायन उवाच। 5-5-12x(3334)
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥ 5-5-12(31795)
द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः।
चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः ॥ 5-5-13(31796)
ततः संप्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥ 5-5-14(31797)
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ॥ 5-5-15(31798)
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ॥ 5-5-16(31799)
समाकुला मही राजन्कुरुपाण्डवकारणात्।
तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् ॥ 5-5-17(31800)
संकुला च तदा भूमिश्चतुरङ्गवलान्विता।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ॥ 5-5-18(31801)
चालयन्तीव गां देवीं सपर्वतवनामिमाम्।
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्।
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ॥ ॥ 5-5-19(31802)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्येगपर्वणि प़ञ्चमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-5-4 संबन्धकं तुत्यमिति। पाण्डवेषु कुन्तीद्वारा । कुरुषु दुर्योधनकन्यायाः साम्बेनाहरणात् ॥ 5-5-11 निष्ठां नाशम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|